|
|
 |
 |
|
|
९ शाल्यपर्व.jpg)
॥ श्रीः ॥
9.21. अध्यायः 021
Mahabharata - Shalya Parva - Chapter Topics
सङ्कुलयुद्धम्॥ 1 ॥

Mahabharata - Shalya Parva - Chapter Text
सञ्जय उवाच। 9-21-0x(5117)(61251)
पुत्रस्तु ते महाराज रथस्थो रथिनां वरः।
दुरुत्सहो बभौ युद्धे यथा रुद्रः प्रतापवान्॥ 9-21-1(61252)
तस्य बाणसहस्रैस्तु प्रच्छन्ना ह्यभवन्मही।
परांश्च सिषिचे बाणैर्धाराभिरिव पर्वतान्॥ 9-21-2(61253)
न च सोऽस्ति पुमान्कश्चित्पाण्डवानां बलार्णवे।
हयो गजो रथो वाऽपि यः स्याद्बाणैरविक्षतः॥ 9-21-3(61254)
यं यं हि समरे योधं प्रपश्यामि विशाम्पते।
स स बाणैश्चितोऽभूद्वै पुत्रेण तव भारत॥ 9-21-4(61255)
यथा सैन्येन रजसा समुद्भूतेन वाहिनी।
प्रत्यदृश्यत सञ्छन्ना तथा बाणैर्महात्मनः॥ 9-21-5(61256)
बाणभूतामपश्याम पृथिवीं पृथिवीपते।
दुर्योधनेन प्रकृतां क्षिप्रहस्तेन धन्विना॥ 9-21-6(61257)
तेषु योधसहस्रेषु तावकेषु परेषु च।
नास्ति दुर्योधनसमः पुमानिति मतिर्मम॥ 9-21-7(61258)
तत्राद्भुतमपश्याम तव पुत्रस्य विक्रमम्।
यदेकं सहिताः पार्था नाभ्यवर्तन्त भारत॥ 9-21-8(61259)
युधिष्ठिरं शतेनाजौ विव्याध भरतर्षभ।
भीमसेनं च सप्तत्या सहदेवं च पञ्चभिः॥ 9-21-9(61260)
नकुलं च चतुःषष्ट्या धृष्टद्युम्नं च पञ्चभिः।
पञ्चभिर्द्रौपदेयांश्च त्रिभिर्विव्याध सात्यकिम्॥ 9-21-10(61261)
धनुश्चिच्छेद भल्लेन सहदेवस्य मारिष।
तदपास्य धनुश्छिन्नं माद्रीपुत्रः प्रतापवान्॥ 9-21-11(61262)
अभ्यद्रवत राजानं प्रगृह्यान्यन्महद्धनुः।
ततो दुर्योधनं सङ्ख्ये विव्याध दशभिः शरैः॥ 9-21-12(61263)
नकुलस्तु ततो वीरो राजानं नवभिः शरैः।
घोररूपैर्महेष्वासो विव्याध च ननाद च॥ 9-21-13(61264)
सात्यकिश्चैव राजानं शरेणानतपर्वणा।
द्रौपदेयास्त्रिसप्तत्या धर्मराजश्च पञ्चभिः।
अशीत्या भीमसेनश्च शरै राजानमार्पयन्॥ 9-21-14(61265)
समन्तात्कीर्यमाणस्तु बाणसङ्घैर्महात्मभिः।
न चचाल महाराज सर्वसैन्यस्य पश्यतः॥ 9-21-15(61266)
लाघवात्सौष्ठवाच्चापि वीर्याच्चापि महात्मनः।
अति सर्वाणि भूतानि ददृशुः सर्वपार्थिवाः॥ 9-21-16(61267)
धार्तराष्ट्रा हि राजेन्द्र योधास्तु स्वल्पमन्तरम्।
अपश्यमाना राजानं पर्यवर्तन्त दंशिताः॥ 9-21-17(61268)
तेषामापततां घोरस्तुमुलः समपद्यत।
क्षुब्धस्य हि समुद्रस्य प्रावृट्काले यथा स्वनः॥ 9-21-18(61269)
समासाद्य रणे ते तु राजानमपराजितम्।
प्रत्युद्ययुर्महेष्वासाः पाण्डवानाततायिनः॥ 9-21-19(61270)
भीमसेनं रणे क्रुद्धो द्रोणपुत्रो न्यवारयत्।
तयोर्बाणैर्महाराज प्रमुक्तैः सर्वतोदिशम्।
नाज्ञायन्त रणे वीरा न दिशः प्रदिशस्तथा॥ 9-21-20(61271)
तावुभौ क्रूरकर्माणावुभौ भारतदुःसहौ।
घोररूपमयुध्येतां कृतप्रतिकृतैषिणौ॥ 9-21-21(61272)
त्रासयन्तौ दिशः सर्वा ज्याक्षेपकठिनत्वचौ।
शकुनिस्तु रणे वीरो युधिष्ठिरमपीडयत्॥ 9-21-22(61273)
तस्याश्वांश्चतुरो हत्वा सुबलस्य सुतो विभो।
नादं चकार बलवत्सर्वसैन्यानि कम्पयन्॥ 9-21-23(61274)
एतस्मिन्नन्तरे वीरं राजानमपराजितम्।
अपोवाह रथेनाजौ सहदेवः प्रतापवान्॥ 9-21-24(61275)
अथान्यं रथमास्थाय धर्मपुत्रो युधिष्ठिरः।
शकुनिं नवभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः।
ननाद च महानादं प्रवरः सर्वधन्विनाम्॥ 9-21-25(61276)
तद्युद्धमभवच्चित्रं घोररूपं च मारिष।
प्रेक्षतां प्रीतिजननं सिद्धचारणसेवितम्॥ 9-21-26(61277)
उलूकस्तु महेष्वासं नकुलं युद्धदुर्मदम्।
अभ्यवर्षदमेयात्मा शरवर्षैः समन्ततः॥ 9-21-27(61278)
तथैव नकुलः शूरः सौबलस्य सुतं रणे।
शरवर्षेण महता समन्तात्पर्यवारयत्॥ 9-21-28(61279)
तौ तत्र समरे वीरौ कुलपुत्रौ महारथौ।
योधयन्तावपश्येतां कृतप्रतिकृतैषिणौ॥ 9-21-29(61280)
तथैव कृतवर्माणं शैनेयः शत्रुतापनः।
योधयञ्शुशुभे राजन्बलिं शक्र इवाहवे॥ 9-21-30(61281)
दुर्योधनो धनुश्छित्त्वा धृष्टद्युम्नस्य संयुगे।
अथैनं छिन्नधन्वानं विव्याध निशितैः शरैः॥ 9-21-31(61282)
धृष्टद्युम्नोऽपि समरे प्रगृह्य परमायुधम्।
राजानं योधयामास पश्यतां सर्वधन्विनाम्॥ 9-21-32(61283)
तयोर्युद्धं महच्चासीत्सङ्ग्रामे भरतर्षभ।
प्रभिन्नयोर्यथा सक्तं मत्तयोर्वनहस्तिनोः॥ 9-21-33(61284)
गौतमस्तु रणे क्रुद्धो द्रौपदेयान्महाबालान्।
विव्याध बहुभिः शूरः शरैः सन्नतपर्वभिः॥ 9-21-34(61285)
तस्य तैरभवद्युद्धमिन्द्रियैरिव देहिनः।
घोररूपमसंवार्यं निर्मर्यादमवर्तत॥ 9-21-35(61286)
ते च सम्पीडयामासुरिन्द्रियाणीव बालिशम्।
स च तान्प्रतिसंरब्धः प्रत्ययोधयदाहवे॥ 9-21-36(61287)
एवं चित्रमभूद्युद्धं तस्य तैः सह भारत।
उत्थायोत्थाय हि यथा देहिनामिन्द्रियैर्विभो॥ 9-21-37(61288)
नराश्चैव नरैः सार्धं दन्तिनो दन्तिभिस्तथा।
हया हयैः समासक्ता रथिनो रथिभिः सह॥ 9-21-38(61289)
सङ्कुलं चाभवद्भूयो घोररूपं विशाम्पते॥ 9-21-39(61290)
इदं चित्रमिदं घोरमिदं रौद्रमिति प्रभो।
युद्धान्यासन्महाराज घोरांणि च बहूनि च॥ 9-21-40(61291)
ते समासाद्य समरे परस्परमरिन्दमाः।
व्यनदंश्चैव जघ्नुश्च समाताद्य महाहवे॥ 9-21-41(61292)
तेषां पत्रसमुद्भूतं रजस्तीव्रमदृश्यत।
वातेन चोद्धतं राजन्धावद्भिश्चाश्वसादिभिः॥ 9-21-42(61293)
रथनेमिसमुद्भूतं निःश्वासैश्चापि दन्तिनाम्।
रजः सन्ध्याभ्रकलिलं दिवाकरपथं ययौ॥ 9-21-43(61294)
रजसा तेन सम्पृक्तो भास्करो निष्प्रभः कृतः।
सञ्छादिताऽभवद्भूमिस्ते च शूरा महारथाः॥ 9-21-44(61295)
मुहूर्तादिव संवृत्तं नीरजस्कं समन्ततः।
वीरशोणितसिक्तायां भूमौ भरतसत्तम॥ 9-21-45(61296)
उपाशाम्यत्ततस्तीव्रं तद्रजो घोरदर्शनम्॥ 9-21-46(61297)
ततोऽपश्यमहं भूयो द्वन्द्वयुद्धानि भारत।
यथाप्राणं यथाश्रेष्ठं मध्याह्ने वै सुदारुणम्॥ 9-21-47(61298)
वर्मणां तत्र राजेन्द्र व्यदृश्यन्तोज्ज्वलाः प्रभाः।
शब्दश्च तुमुलः सङ्ख्ये शराणां पततामभूत्
महावेणुवनस्येव दह्यमानस्य पर्वते॥ ॥ 9-21-48(61299)
इति श्रीमन्महाभारते शल्यपर्वणि शल्यवधपर्वणि अष्टादशदिवसयुद्धे एकविंशोऽध्यायः॥ 21 ॥
Mahabharata - Shalya Parva - Chapter Footnotes
9-21-42 पत्रं वाहनम्॥ 9-21-21 एकविंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|